मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २८

संहिता

अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् ।
अ॒र्वा॒चीनै॑ः प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इन्दो ॥

पदपाठः

अश्वः॑ । न । क्र॒दः॒ । वृष॑ऽभिः । यु॒जा॒नः । सिं॒हः । न । भी॒मः । मन॑सः । जवी॑यान् ।
अ॒र्वा॒चीनैः॑ । प॒थिऽभिः॑ । ये । रजि॑ष्ठाः । आ । प॒व॒स्व॒ । सौ॒म॒न॒सम् । नः॒ । इ॒न्दो॒ इति॑ ॥

सायणभाष्यम्

हेसोम वृषभिरृत्विग्भिः सोममभिषुण्वद्भिः युजानोयोज्यमानस्त्वं अश्वोन अश्वइव क्रदः क्रन्दसि शब्दायसे । कीदृशाः सिंहोन सिंहइव भीमः शात्रूणां भयंकरः तथा मनसो पि जवीयान् वेगवत्तरः अर्वाचीनैः अभिमुखैः पथिभिर्मार्गैः येमार्गाः रजिष्ठाः अत्यन्तमृ- जवोभवन्ति विभाषर्जोश्छान्दसीतिऋकारस्यरादेशः । हेइन्दो दीप्यमान सोम तैर्मार्गैः नोस्माकं सौमनसं सौमनस्यं आपवस्व आप्रापय ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६