मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४०

संहिता

अक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दु॑ः ॥

पदपाठः

अक्रा॑न् । स॒मु॒द्रः । प्र॒थ॒मे । विऽध॑र्मन् । ज॒नय॑न् । प्र॒ऽजाः । भुव॑नस्य । राजा॑ ।
वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अव्ये॑ । बृ॒हत् । सोमः॑ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः॑ ॥

सायणभाष्यम्

समुद्रः यस्मादापः समुद्द्रवन्ति ससमुद्रः अपांवर्षकोराजासोमः प्रथमे विस्तृते भुवन- स्योदकस्य विधर्मन् विधारकेन्तरिक्षे प्रजा जनयन् । उत्पादयन् अक्रान् सर्वमतिक्रामति । क्रमतेर्लुङि तिपीडभावे वृद्धौ च कृतायां सिज् लोपे मकारस्य मोनोधातोरितिनकारेरूपम् । वृषा कामानां वर्षिता सुवानोभिषूयमाणः इन्दुर्दीप्तः ससोमः अधि अधिकं सानौ समु- च्छ्रिते अव्ये अविमये पवित्रे बृहत् प्रभूतं ववृधे वर्धते ॥ ४० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८