मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४१

संहिता

म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् ।
अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दु॑ः ॥

पदपाठः

म॒हत् । तत् । सोमः॑ । म॒हि॒षः । च॒का॒र॒ । अ॒पाम् । यत् । गर्भः॑ । अवृ॑णीत । दे॒वान् ।
अद॑धात् । इन्द्रे॑ । पव॑मानः । ओजः॑ । अज॑नयत् । सूर्ये॑ । ज्योतिः॑ । इन्दुः॑ ॥

सायणभाष्यम्

महिषो महान् पूज्योवा सोमो महत् प्रभूतं तत् कर्म चकार अकरोत् । किंतत् अपांग- र्भः उदकानांगर्भभूतः जनयितृत्वाज्जन्यत्वाच्च ससोमः देवानवृणीत समभजतेतियत् तत् कृतवानिति । किंच पवमानः पूयमानः सोमः ओजः सोमपानेन जन्यं बलं इन्द्रे अदधात् व्यदधात् । तथा इन्दुः सोमः सूर्येज्योतिस्तेजः अजनयत् ॥ ४१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९