मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४९

संहिता

अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः ।
अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥

पदपाठः

अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु॑णा । पू॒यमा॑नः ।
अ॒भि । नर॑म् । धी॒ऽजव॑नम् । र॒थे॒ऽस्थाम् । अ॒भि । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् ॥

सायणभाष्यम्

हेसोम गृणानः स्तूयमानः त्वं वीती सुपांसुलुगिति चतुर्थ्याःपूर्वसवर्णदीर्घः । वीत्यै पानाय वायुमभ्यर्ष अभिगच्छ । तथा पवित्रेण पूयमानस्त्वं मित्रावरुणा मित्रावरुणौच पानायाभिगच्छ । किंच नरं सर्वस्यनेतारं धीजवनं बुध्यासमंवेगं कुर्वाणं रथेष्ठां रथेस्थां रथेतिष्ठन्तं अनेनाश्विनावभिधीयेते । एकवचनं प्रत्येकविवक्षया समुदायविवक्षयावा । एता दृशावश्विनौचाभिगच्छ । तथा वूषणं कामानां वर्षकं वज्रबाहुं वज्रयुक्तबाहुं इन्द्रंच त्वं- पानायाभिगच्छ ॥ ४९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०