मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५०

संहिता

अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघा॑ः पू॒यमा॑नः ।
अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥

पदपाठः

अ॒भि । वस्त्रा॑ । सु॒ऽव॒स॒नानि॑ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒ऽदुघाः॑ । पू॒यमा॑नः ।
अ॒भि । च॒न्द्रा । भर्त॑वे । नः॒ । हिर॑ण्या । अ॒भि । अश्वा॑न् । र॒थिनः॑ । दे॒व॒ । सो॒म॒ ॥

सायणभाष्यम्

हे सोम त्वमस्माकं सुवसनानि सुपरिधानानि वस्त्रा वस्त्राणि अभ्यर्ष अभिगमय । यद्वा सुवसनानि शोभनवस्त्रसहितानि वस्त्रा आच्छादकानि धनान्यभिगमय । किंच पूय- मानः पवित्रेण त्वं सुदुघाः सुष्ठुपयसोदोग्ध्रीः धेनूः नवप्रसूतिकागाः अभिप्रापय । अपि च चन्द्रा चन्द्राण्याह्लादकानि हिरण्या हिरण्यानि भर्तवे भरणाय पोषणाय नोस्माकमभि- गमय । तथा हेदेव स्तोतव्य हेसोम रथिनोरथवतोश्वान् अस्माकमभिप्रापय ॥ ५० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०