मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५१

संहिता

अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः ।
अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्न॑ः ॥

पदपाठः

अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू॑नि । अ॒भि । विश्वा॑ । पार्थि॑वा । पू॒यमा॑नः ।
अ॒भि । येन॑ । द्रवि॑णम् । अ॒श्नवा॑म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒ऽवत् । नः॒ ॥

सायणभाष्यम्

हे सोम पवित्रेण पूयमानस्त्वं दिव्या दिव्यानि दिविभवानि वसूनि धनानि नोस्माक मभ्यर्ष अभिगमय । तथा पार्थिवा पार्थिवानि पृथिव्यांभवानि विश्वा सर्वाणि धनान्यभिगमय । तथा सेन त्वदीयेन सामर्थ्येन द्रविणं धनं वयमभ्यश्नवाम अभिव्याप्नुयाम तत्सा-मर्थ्यमभिगमय । किंच आर्षेयं आर्षाणामृषिपुत्राणां योग्यं धनं जमदग्निवत् जमदग्नेर्यथा त्वं- प्रापयः एवं नोस्माकमपि अभ्यर्ष । यद्वा आर्षेयं आर्षाणां योग्यं मंत्रं जमदग्नेःस्वभूतंमंत्रं यथा स्वादुतममकार्षीः एवमस्माकं तादृशंमंत्रं स्वादुतमंकुर्विति कुत्सोनामऋषिःप्रार्थयते । ॥ ५१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१