मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् १

संहिता

अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह॑म् ।
इन्दो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह॑म् ॥

पदपाठः

अ॒भि । नः॒ । वा॒ज॒ऽसात॑मम् । र॒यिम् । अ॒र्ष॒ । पु॒रु॒ऽस्पृह॑म् ।
इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् । तु॒वि॒ऽद्यु॒म्नम् । वि॒भ्व॒ऽसह॑म् ॥

सायणभाष्यम्

हे इन्दो दीप्त वाजसातमं अत्यन्तं बलप्रदं अन्नप्रदंवा रयिं धनं पुत्रंवानोस्माकमभ्यर्ष अभिगमय । कीदृशं पुरुस्पृहं बहुभिःस्पृहणीयं सहस्रभार्णसं बहुविधभरणं अनेकपोषणयुक्त मित्यर्थः तुविद्युम्नं द्युम्नंद्योततेर्यशोवान्नंवेतियास्कः । बह्वन्नं बहुयशोयुक्तंवा विभ्वसहं वि भ्वइतिमहन्नाम महतोभिभवितारं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३