मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ८

संहिता

अ॒स्य वो॒ ह्यव॑सा॒ पान्तो॑ दक्ष॒साध॑नम् ।
यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥

पदपाठः

अ॒स्य । वः॒ । हि । अव॑सा । पान्तः॑ । द॒क्ष॒ऽसाध॑नम् ।
यः । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । द॒धे । स्वः॑ । न । ह॒र्य॒तः ॥

सायणभाष्यम्

वः इति छान्दसोवसादेशः हिरवधारणे वोयुयं अस्यसोमस्य अवसा रक्षणेन दक्षसाध नं बलस्यसाधनं रसं पान्तः पिबन्तोभवथ । स्वर्ण आदित्यइव हर्यतः सर्वैःकाम्यमानोयोयं सोमः सूरिषु स्तोत्राणि प्रेरयत्सु स्तोतृषु बृहन्महत् प्रभूतं श्रवोन्नं दधे विदधे स्थापय- न्तीतियावत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४