मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९९, ऋक् २

संहिता

अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते ।
यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वन्ति॒ यात॑वे ॥

पदपाठः

अध॑ । क्ष॒पा । परि॑ऽकृतः । वाजा॑न् । अ॒भि । प्र । गा॒ह॒ते॒ ।
यदि॑ । वि॒वस्व॑तः । धियः॑ । हरि॑म् । हि॒न्वन्ति॑ । यात॑वे ॥

सायणभाष्यम्

क्षपा सुपांसुलुगितिपंचम्याआकारः क्षपाया रात्रेः अध अनन्तरं प्रातःकाले परिष्कृतः भूषणार्थे संपर्युपेभ्यइति करोतेःसुडागमः । अद्भिरलंकृतः यद्वा क्षपयित्र्यां सेनायां अलं- कृतः सोमः वाजान् अन्नानि बलानिवा अभिलक्ष्य प्रगाहते प्रगच्छति । विवस्वतः परि- चरणवतोयजमानस्य धियः कर्मसाधनभूता अंगुलयः हरिं हरितवर्णं पतमंशुं यातवे पात्रा ण्यभिगमनाय यदि हिन्वन्ति प्रेरयन्ति तर्हि सवनानि गच्छतीति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५