मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् १

संहिता

अ॒भी न॑वन्ते अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ॥

पदपाठः

अ॒भि । न॒व॒न्ते॒ । अ॒द्रुहः॑ । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् ।
व॒त्सम् । न । पूर्वे॑ । आयु॑नि । जा॒तम् । रि॒ह॒न्ति॒ । मा॒तरः॑ ॥

सायणभाष्यम्

यथा मातरोगावः पूर्वे प्रथमे आयुनि वयसि जातंवत्सं रिहंतिलिहन्ति तथा अद्रुहः अद्रोहाः वसतीवर्याख्याः आपः इन्द्रस्यप्रियं काम्यं सर्वैःकाम्यमानं सोममभिनवन्ते अभिग- च्छन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७