तं दु॒रोष॑म॒भी नर॒ः सोमं॑ वि॒श्वाच्या॑ धि॒या ।
य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः ॥
तम् । दु॒रोष॑म् । अ॒भि । नरः॑ । सोम॑म् । वि॒श्वाच्या॑ । धि॒या ।
य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ॥
नरः कर्मनेतार ऋत्विजः दुरोषं रोषतेर्हिंसार्थस्यरेफलोपे दीर्घागाव आषतर्दाहार्थस्य वा खलु रूपमितिसंदेहादनवग्रहः । तं दुर्दहं दुर्वधंवा यज्ञं यष्टव्यं तंवा सोमं विश्वाच्या सर्वान् कामानंचित्र्या धिया बुध्या अद्रिभिर्ग्रावभिरभिहिन्वन्ति अभिप्रेरयन्ति अभिषुण्व- न्तीति यावत् ॥ ३ ॥ पृष्ठ्यस्य षष्ठेहनि ब्राह्मणाच्छंसिशस्त्रे सुतासइति –दधिक्राव्णोअकारिषमित्यनुष्टुप् सुतासोमधुमत्तमाइति च तिस्रइति ।