मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ४

संहिता

सु॒तासो॒ मधु॑मत्तमा॒ः सोमा॒ इन्द्रा॑य म॒न्दिनः॑ ।
प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदा॑ः ॥

पदपाठः

सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ ।
प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥

सायणभाष्यम्

मधुमत्तमाः अतिशयेन माधुर्योपेताः अतएव मंदिनोमदकराः सुतासोभिषुताः सोमाः पवित्रवन्तः पवित्रे वर्तमानाः सन्तः इन्द्राय इन्द्रार्थं अक्षरन् पात्रेषु क्षरन्ति । अथ प्रत्य- क्षकृतः वोयुष्माकं मदामदकरारसाः देवानिन्द्रादीनागच्छन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः