मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ५

संहिता

इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् ।
वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥

पदपाठः

इन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् ।
वा॒चः । पतिः॑ । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥

सायणभाष्यम्

इन्दुः सोमः इन्द्राय इन्द्रार्थं पवते कलशे क्षरति इति देवासः स्तुतिकारिणः स्तोता- रोब्रुवन् वदन्ति । यदा स्तोतार एवंवदन्ति तदानीं वाचः स्तुतेः पतिः पालयिता यद्वा शब्दस्य स्वामी अत्यन्तं शब्दायमानइत्यर्थः । तादृशः सोमः मखस्यते स्तुतिभिः पूजा- मिच्छति लालसायां सुगागमः । कीदृशः ओजसा बलेन विश्वस्य सर्वस्येशानः प्रभुः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः