मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ६

संहिता

स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः ।
सोम॒ः पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥

पदपाठः

स॒हस्र॑ऽधारः । प॒व॒ते॒ । स॒मु॒द्रः । वा॒च॒म्ऽई॒ङ्ख॒यः ।
सोमः॑ । पतिः॑ । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

सहस्रधारः बहुविधधारोपेतः सोमः पवते क्षरति । कीदृशः समुद्रः यस्मात्समुद्रवन्ति रसाः रसस्थानीयः वाचमींखयः ईंखतेर्ण्यन्तस्य सुप्युपपदे खच् प्रत्ययः । स्तुतीनां प्रेरयि- ता रयोणां धनानां पतिः प्रभुः यद्वा रयीणां हविषोदातॄणां यजमानानां पतिः पालयि- ता दिवेदिवे प्रत्यहं इन्द्रस्य सखामित्रभूतः सोमः पवते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः