मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ७

संहिता

अ॒यं पू॒षा र॒यिर्भग॒ः सोमः॑ पुना॒नो अ॑र्षति ।
पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥

पदपाठः

अ॒यम् । पू॒षा । र॒यिः । भगः॑ । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।
पतिः॑ । विश्व॑स्य । भूम॑नः । वि । अ॒ख्य॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

सायणभाष्यम्

पूषा पोषकः सर्वेषां भगोभजनीयः रयिर्धनहेतुः अयं सोमः पुनानः पूयमानः सन् अर्षति कलशे गच्छति । तथा विश्वस्य सर्वस्य भूमनोभूतजातस्य पतिः पालयिता सोमः उभे रोदसी द्यावापृथिव्यौ व्यख्यत् स्वतेजसा प्रकाशयति । अनेन लोक्द्वयवर्तित्वं सूचितं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः