मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् ११

संहिता

सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि ।
इष॑म॒स्मभ्य॑म॒भित॒ः सम॑स्वरन्वसु॒विदः॑ ॥

पदपाठः

सु॒स्वा॒णासः॑ । वि । अद्रि॑ऽभिः । चिता॑नाः । गोः । अधि॑ । त्व॒चि ।
इष॑म् । अ॒स्मभ्य॑म् । अ॒भितः॑ । सम् । अ॒स्व॒र॒न् । व॒सु॒ऽविदः॑ ॥

सायणभाष्यम्

गोः अनडुहः अधित्वचि अधिषवणचर्मणि चितानाः ज्ञायमानाः अद्रिभिर्ग्रावभिः विविधं सुष्वाणासः सूयमानाः वसुविदोवसुनोलंभकाः एते सोमाः अस्मभ्यमिषमन्नमभि- तः समस्वरन् सम्यक् शब्दयन्ति प्रयच्छन्तीतियावत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः