मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् १६

संहिता

अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि ।
कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम् ॥

पदपाठः

अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । सोमः॑ । गव्ये॑ । अधि॑ । त्व॒चि ।
कनि॑क्रदत् । वृषा॑ । हरिः । इन्द्र॑स्य । अ॒भि । ए॒ति॒ । निः॒ऽकृ॒तम् ॥

सायणभाष्यम्

अयं सोमः अव्यः अवेर्वारेभिः वालैः पवित्रैः तेभ्यः पवते कलशं प्रति क्षरति । ग- व्ये आनडुहे अधित्वचि चर्मणि कनिक्रदत् शब्दायमानः वृषा कामानां वर्षकः हरिर्हरित- वर्णः सोमः इन्द्रस्य स्वभूतं निष्कृतं संस्कृतं स्थानं अभ्येति अभिगच्छति ॥ १६ ॥

क्राणाशिशुरित्यष्टर्चं षष्ठं सूक्तम् । आप्त्यस्य त्रितस्यार्षम् । इदमुत्तराणि चत्वारिसूक्तानि औष्णिहानि । पवमानः सोमोदेवता । तथाचानुक्रम्यते—क्राणाष्टौत्रितऔष्णिहंवैइति । गतो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः