मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १

संहिता

परी॒तो षि॑ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः ।
द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥

पदपाठः

परि॑ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्ऽत॒मम् । ह॒विः ।
द॒ध॒न्वान् । यः । नर्यः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒साव॑ । सोम॑म् । अद्रि॑ऽभिः ॥

सायणभाष्यम्

हेऋत्विजः सुतमभिषुतं सोमं इतः अस्मात्कर्मणऊर्ध्वं अथवा अस्मात् प्रदेशादुर्ध्वं परिषिंचत वसतीवरीभिः । इतोषिंचतेत्यत्र संहितायां छन्दसीति रोरुत्त्वेम् । यः सोमः देवानामुत्तमं प्रशस्यं हविर्भवति । आ अपिच नर्योमनुष्यहितोयश्चसोमः अप्सु वसतीवरी- षु अन्तरिक्षेवा अन्तर्दधन्वान् गच्छन् भवति तं सोममद्रिभिर्ग्रावभिः अध्वर्युः सुषाव अ- भिषुतं चकार तं परिषिंचतेति समन्वयः ॥ १ ॥