मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ६

संहिता

पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

पदपाठः

पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।
त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥

सायणभाष्यम्

हे सोम जागृविर्जागरणशीलः प्रियः प्रीणयिता त्वं पुनानः पूयमानः सन् अव्यः अवे- र्वारे वाले पवित्रे परिक्षरसि । किंच विप्रोमेधावी त्वं अंगिरस्तमः अंगिरसां वरिष्ठः पि- तॄणां नेता भवोभवसि सत्वं नोस्मदीयं यज्ञं मध्वा मधुना आत्मीयेन रसेन मिमिक्ष सिं- च मिहेः सेचनार्थस्य सनि रूपं ॥ ६ ॥