मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् ९

संहिता

अ॒नू॒पे गोमा॒न्गोभि॑रक्षा॒ः सोमो॑ दु॒ग्धाभि॑रक्षाः ।
स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा॑य तोशते ॥

पदपाठः

अ॒नू॒पे । गोऽमा॑न् । गोभिः॑ । अ॒क्षा॒रिति॑ । सोमः॑ । दु॒ग्धाभिः॑ । अ॒क्षा॒रिति॑ ।
स॒मु॒द्रम् । न । स॒म्ऽवर॑णानि । अ॒ग्म॒न् । म॒न्दी । मदा॑य । तो॒श॒ते॒ ॥

सायणभाष्यम्

गोमान् गोयुक्तः सोमः अनूपे निम्ने देशे कलशे गोभिर्गोविकारैः क्षीरादिभिः सह अ- क्षाः क्षरति । तदेवोच्यते ससोमः आत्मनोमिश्रणार्थं दुग्धाभिर्गोभिः सह अक्षाः क्षरति क्षरतेर्लुङि रूपम् । किंच समुद्रंन यथा समुद्रमुदकानि गच्छन्ति तद्वत्संवरणानि संभजनीया- नि रसरूपाण्यन्नानि द्रोणकलशमग्मन् गच्छन्ति गमेर्लुङि च्लेर्लुकि रूपम् । किंच मन्दी मदकरः सोमः मदाय मदार्थं तोशते हन्यते अभिषूयते तोशतिर्वधकर्मा ॥ ९ ॥