मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १०

संहिता

आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ ।
जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरि॒ः सदो॒ वने॑षु दधिषे ॥

पदपाठः

आ । सो॒म॒ । सु॒वा॒नः । अद्रि॑ऽभिः । ति॒रः । वारा॑णि । अ॒व्यया॑ ।
जनः॑ । न । पु॒रि । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ । सदः॑ । वने॑षु । द॒धि॒षे॒ ॥

सायणभाष्यम्

हे सोम अद्रिभिर्ग्रावभिः सुवानोभिषूयमाणस्त्वं अव्यया अविमयानि वाराणि वाला- नि पवित्राणि तिरस्कुर्वन् व्यवधायकानि कुर्वाणः सन् आपवसे इतिशेषः । हरिर्हरितवर्णः ससोमः चम्वोरधिषवणफलकयोः उपरिस्थिते कलशे विशत् प्रविशति । तत्र दृष्टान्तः— जनोन यथाजनः पुरि पुरे प्रविशति । सत्वं वनेषु काष्ठनिर्मितेषु पात्रेषु सदः स्थानं दधिषे करोषि ॥ १० ॥