मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १३

संहिता

आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्य॑ः ।
तमीं॑ हिन्वन्त्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥

पदपाठः

आ । ह॒र्य॒तः । अर्जु॑ने । अत्के॑ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः॑ ।
तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः॑ । यथा॑ । रथ॑म् । न॒दीषु॑ । आ । गभ॑स्त्योः ॥

सायणभाष्यम्

हर्यतः स्पृहणीयः प्रियः प्रीणयितासूनुर्न सूनुरिव मर्ज्योमार्जनीयः सोमः अर्जुने अर्जुन वर्णे अत्के रूपे पवित्रे आव्यत आवृणोति तमीमेनं सोमं अंगुलयः नदीषु नदमानासु वस तीवरोषु गभस्त्योर्बाह्वोराभिमुख्येन हिन्वन्ति प्रेरयन्ति । तत्र दृष्टान्तः—अपसो यथा वे- गवन्तोजना रथं संग्रामेषु प्रेरयन्ति तद्वत् ॥ १३ ॥