मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् १४

संहिता

अ॒भि सोमा॑स आ॒यव॒ः पव॑न्ते॒ मद्यं॒ मद॑म् ।
स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥

पदपाठः

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।
स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । म॒नी॒षिणः॑ । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥

सायणभाष्यम्

आयवः गमनशीलाः सोमासः सोमाः मद्यं मदकरं मदंआत्मीयं रसं ग्रामेषु प्रेरयन्ति अभिपवन्ते अभितोनिर्गमयन्ति । कुत्रेत्युच्यते—समुद्रस्य अन्तरिक्षस्य अधि विष्टपि अधि- कं समुच्छ्रिते पवित्रे यद्वा समुद्रस्य यस्मात्समुद्रवन्ति रसास्तस्य कलशस्य अधिउपरि विष्टपि स्थाने पवित्रे निर्गमयन्ति । कीदृशाः मनीषिणः मनसईशितारः मत्सरासः मद- कराः स्वर्विदः सर्वस्य लंभकाः ॥ १४ ॥