मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ४

संहिता

येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे ।
दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥

पदपाठः

येन॑ । नव॑ऽग्वः । द॒ध्यङ् । अ॒प॒ऽऊ॒र्णु॒ते । येन॑ । विप्रा॑सः । आ॒पि॒रे ।
दे॒वाना॑म् । सु॒म्ने । अ॒मृत॑स्य । चारु॑णः । येन॑ । श्रवां॑सि । आ॒न॒शुः ॥

सायणभाष्यम्

नवग्वोनवनीयगतिः यद्वा नवभिर्मासैः सत्रस्यानुष्ठाता दध्यङ् एतन्नामकोंगिरा येन सोमेन पणिभिरपहृतानां गवां द्वारमपोर्णुते अपाच्छादयति विवृतमकार्षीत् विप्रासः तन्मुखाः सर्वे मेधाविनोंगिरसः येन वा सोमेनापिरे एतैरपहृतागाः आप्नुवन् । किंच देवानामिन्द्रादीनां सुम्ने सुखे यज्ञेन संजाते सति चारुणः कल्याणस्य अमृतस्योदकस्य संबन्धीनि श्रवांस्यन्नानि येन सोमेन यजमानाः आनशुः अनानिव्याप्नुवन् अलभन्त सत्वं देवानामम्रुतत्वाय शब्दायसइति पूर्वेण समन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७