मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ५

संहिता

ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिन्त॑मः ।
क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥

पदपाठः

ए॒षः । स्यः । धार॑या । सु॒तः । अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । म॒दिन्ऽत॑मः ।
क्रीळ॑न् । ऊ॒र्मिः । अ॒पाम्ऽइ॑व ॥

सायणभाष्यम्

स्यः सएषसुतोभिषुतः सोमः अव्यः अवेर्वारेभिओर्वालैः तेभ्यः पवित्रेभ्यः धारया आत्मीयया पवते कलशमभीलक्ष्य क्षरति । कीदृशः मदिन्तमः मादयितृतमः अपामिव उदकानां ऊर्मिः संघातइव क्रीळन् इतस्ततः संक्रीडमानः पवते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७