मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ९

संहिता

अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।
वि कोशं॑ मध्य॒मं यु॑व ॥

पदपाठः

अ॒भि । द्यु॒म्नम् । बृ॒हत् । यशः॑ । इषः॑ । प॒ते॒ । दि॒दी॒हि । दे॒व॒ । दे॒व॒ऽयुः ।
वि । कोश॑म् । म॒ध्य॒मम् । यु॒व॒ ॥

सायणभाष्यम्

हे इषस्पते अन्नस्य पते हे देव स्तोतव्य सोम देवयुः देवकामस्त्वं द्युम्नं द्योतमानं बृहत् प्रभूतं यशोन्नं अस्मभ्यमभिदीदिहि आभिमुख्येन प्रकाशय प्रयच्छेत्यर्थः । आमंत्रित- स्याविद्यमानत्वेन पादादित्वादनिघातः । किंच मध्यमं अन्तरिक्षस्थितं कोशं मेघं वियु- ववृष्ट्यर्थंविगमय विश्लेषय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८