मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १७

संहिता

स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभि॑ः श्रीणा॒नः ॥

पदपाठः

सः । वा॒जी । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽरेताः । अ॒त्ऽभिः । मृ॒जा॒नः । गोभिः॑ । श्री॒णा॒नः ॥

सायणभाष्यम्

वाजी वेगवान् बलवान् वा ससोमः अक्षाः क्षरति । कीदृशः सहस्ररेताः बहुरेतस्कः बहूदकः अद्भिर्वसतीवरीभिः मृजानोमृज्यमानोगोभिर्गोविकारैः क्षीरादिभिः श्रीणानः श्रीय- माणः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१