मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १९

संहिता

अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥

पदपाठः

अस॑र्जि । वा॒जी । ति॒रः । प॒वित्र॑म् । इन्द्रा॑य । सोमः॑ । स॒हस्र॑ऽधारः ॥

सायणभाष्यम्

वाजी बलवान् वेगवान्वा पवित्रं तिरः तिरस्कुर्वन् सहस्रधारोबहुधारः सोमः इन्द्राये- न्द्रार्थं असर्जि सृज्यते ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१