मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् २०

संहिता

अ॒ञ्जन्त्ये॑नं॒ मध्वो॒ रसे॒नेन्द्रा॑य॒ वृष्ण॒ इन्दुं॒ मदा॑य ॥

पदपाठः

अ॒ञ्जन्ति॑ । ए॒न॒म् । मध्वः॑ । रसे॑न । इन्द्रा॑य । वृष्णे॑ । इन्दु॑म् । मदा॑य ॥

सायणभाष्यम्

वृष्णे कामानां वर्षित्रे इन्द्राय इन्द्रस्य मदाय मदार्थं मध्वोमधुनोरसेन गव्येन एन- मिन्दुं सोममृत्विजो अंजन्ति संयोजयन्ति ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१