मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् १

संहिता

पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणि॑ः ।
द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥

पदपाठः

परि॑ । ऊं॒ इति॑ । सु । प्र । ध॒न्व॒ । वाज॑ऽसातये । परि॑ । वृ॒त्राणि॑ । स॒क्षणिः॑ ।
द्वि॒षः । त॒रध्यै॑ । ऋ॒ण॒ऽयाः । नः॒ । ई॒य॒से॒ ॥

सायणभाष्यम्

हे सोम सु सुष्ठु वाजसातये अस्मभ्यमन्नदानायैव परिप्रधन्व परितः प्रगच्छ । यद्वा वाजसातये अन्नलाभाय संग्रामं प्रगच्छ । किंच सक्षणिः सहनशीलस्त्वं वृत्राणि शत्रून्परि- गच्छ । तदेवोच्यते—नोस्माकं ऋणयाः ऋणानां यापयिता त्वं द्विषः शत्रून् तरध्यै तरीतुं हन्तुं ईयसे परिगच्छसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२