मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् २

संहिता

अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ ।
वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥

पदपाठः

अनु॑ । हि । त्वा॒ । सु॒तम् । सो॒म॒ । मदा॑मसि । म॒हे । स॒म॒र्य॒ऽराज्ये॑ ।
वाजा॑न् । अ॒भि । प॒व॒मा॒न॒ । प्र । गा॒ह॒से॒ ॥

सायणभाष्यम्

हे सोम सुतमभिषुतं त्वा त्वां वयमनुमदामसिहि अनुमदामः अनुक्रमेणाभिष्टुमः खलु । हे पवमानसोम सत्वं महे महति समर्यराज्ये महत् समनुष्यं त्वदीयं राज्यमनुपालयितुं वाजान् शत्रुबलान्यभिलक्ष्य प्रगाहसे प्रगच्छसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२