मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ३

संहिता

अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ ।
गोजी॑रया॒ रंह॑माण॒ः पुरं॑ध्या ॥

पदपाठः

अजी॑जनः । हि । प॒व॒मा॒न॒ । सूर्य॑म् । वि॒ऽधारे॑ । शक्म॑ना । पयः॑ ।
गोऽजी॑रया । रंह॑माणः । पुर॑म्ऽध्या ॥

सायणभाष्यम्

हे पवमान सोम त्वं पयः पयसउदकस्य विधारे विधारके अन्तरिक्षे शक्मना समर्थेन बलेन सूर्यमजीजनोहि उत्पादितवान् भवसि खलु । कीदृशः गोजीरया स्तोतृभ्योगवां प्रेर- केण स्तोतॄणां प्रेरितपशुकेनेत्यर्थः । तादृशेन पुरंध्या बहुविधप्रज्ञानेन युक्तः रंहमाणःवेगं कुर्वाणस्त्वं सूर्यमजीजनः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२