मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ४

संहिता

अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः ।
सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥

पदपाठः

अजी॑जनः । अ॒मृ॒त॒ । मर्त्ये॑षु । आ । ऋ॒तस्य॑ । धर्म॑न् । अ॒मृत॑स्य । चारु॑णः ।
सदा॑ । अ॒स॒रः॒ । वाज॑म् । अच्छ॑ । सनि॑स्यदत् ॥

सायणभाष्यम्

हे अमृत मरणधर्मरहित सोम त्वं ऋतस्य सत्यभूतस्य चारुणः कल्याणस्य अमृत- स्योदकस्य धर्मन् धारके अन्तरिक्षे सूर्यमजीजनः किमर्थं मर्त्येष्वामनुष्येष्वभिमुखीभवना- य । किंच सनिष्यदत् संभजन् सत्वं वाजं अच्छ संग्राममभिलक्ष्य सदा असरः सरसि गच्छसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२