मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ५

संहिता

अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् ।
शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥

पदपाठः

अ॒भिऽअ॑भि । हि । श्रव॑सा । त॒तर्दि॑थ । उत्स॑म् । न । कम् । चि॒त् । ज॒न॒ऽपान॑म् । अक्षि॑तम् ।
शर्या॑भिः । न । भर॑माणः । गभ॑स्त्योः ॥

सायणभाष्यम्

हे सोम त्वं श्रवसान्नेन हेतुना अभ्यभि ततर्दिथ हि पवित्रमभितृणवानसि छिन्नवान- सि । तत्र दृष्टन्तद्वयं—उत्संन यथा कश्चित् जनपानं अस्मिन् जनाउदकं पिबन्ति तमक्षि- तं अक्षीणं कंचित् कंचन उत्सरणशीलं वाप्यादिकं अभितृणत्ति अथवा कश्चित् गभस्यो- र्बाह्वोः शर्याभिरंगुलीभीर्भरमाणउदकं संभरन् कंचिदभितृणत्ति तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२