मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ६

संहिता

आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत ।
वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥

पदपाठः

आत् । ई॒म् । के । चि॒त् । पश्य॑मानासः । आप्य॑म् । व॒सु॒ऽरुचः॑ । दि॒व्याः । अ॒भि । अ॒नू॒ष॒त॒ ।
वार॑म् । न । दे॒वः । स॒वि॒ता । वि । ऊ॒र्णु॒ते॒ ॥

सायणभाष्यम्

आदनन्तरं पश्यमानास एनं पश्यन्तोदिव्याः दिविभवाः वसुरुचोनामकेचित् आप्यं ब- न्धुं साधुं ईमेनं सोमं अभ्यनूषत अभ्यस्तुवन् । कस्मादनन्तरमिति उच्यते देवोद्योतमानः सविता सर्वस्य प्रेरकः सूर्यः वारं आवरकं अंधकारं नव्यूर्णुते नापगमयति तदा एनमस्तु- वन् सूर्योदयात् प्रागेवहि सोमं स्तुवन्ति खलु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२