मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ८

संहिता

दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत ।
इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥

पदपाठः

दि॒वः । पी॒यूष॑म् । पू॒र्व्यम् । यत् । उ॒क्थ्य॑म् । म॒हः । गा॒हात् । दि॒वः । आ । निः । अ॒धु॒क्ष॒त॒ ।
इन्द्र॑म् । अ॒भि । जाय॑मानम् । सम् । अ॒स्व॒र॒न् ॥

सायणभाष्यम्

दिवोद्युलोकात् तत्र स्थितैर्देवैः पीयूषं पातव्यं पूर्व्यं पूर्व्यं प्रत्नं यत्सोमरूपपमन्नं उक्थ्यं प्रशस्यमस्ति तं सोमं महो महतोगाहात् दिवोद्युलोकात् आनिराधुक्षत आभिमु- ख्येन निर्दुहन्ति । ततः दुग्धमिन्द्रं अभिलक्ष्य जायमानं तं सोमं समस्वरन् स्तोतारः संस्तुवन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३