मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ९

संहिता

अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ ।
यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥

पदपाठः

अध॑ । यत् । इ॒मे इति॑ । प॒व॒मा॒न॒ । रोद॑सी॒ इति॑ । इ॒मा । च॒ । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ ।
यू॒थे । न । निः॒ऽस्थाः । वृ॒ष॒भः । वि । ति॒ष्ठ॒से॒ ॥

सायणभाष्यम्

हे पवमान सोमा अध अथ अनन्तरं यद्यदा इमे रोदसी द्यावापृथिव्यौ इमा इमानि विश्वा विश्वानि भुवना भूतजातानिच मज्मना बलेन अभितिष्ठसि सत्वं तथाकुर्वन् भुव- नेषु वितिष्ठतसे । तत्र दृष्टन्तः—यूथे न यथाकश्चिद्वृषभः गवां यूथे वृन्दे निःष्ठाः निःष्ठितोवर्तते तद्वत् यूथस्थानीयेषु भूतजातेषु निःष्ठिनोभवसि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३