मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११०, ऋक् ११

संहिता

ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेन्द्रा॒येन्दु॑ः पवते स्वा॒दुरू॒र्मिः ।
वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥

पदपाठः

ए॒षः । पु॒ना॒नः । मधु॑ऽमान् । ऋ॒तऽवा॑ । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । स्वा॒दुः । ऊ॒र्मिः ।
वा॒ज॒ऽसनिः॑ । व॒रि॒वः॒ऽवित् । व॒यः॒ऽधाः ॥

सायणभाष्यम्

पुनानः पूयमानः मधुमान् माधुर्योपेतः ऋतावा ऋतवान् यज्ञवान् इंदुः क्षरणशीलः स्वादुः स्वादुकरः ऊर्मिः एषरसधारासंघः इन्द्रायेन्द्रार्थं पवते क्षरति । कीदृशः वाजसनिः अन्नस्य दाता वरिवोवित् धनस्य लंभकः वयोधाः आयुषोदाता ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३