मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् २

संहिता

न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।
म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥

पदपाठः

न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।
म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥

सायणभाष्यम्

यमः आत्मानं परोक्षीकृत्य यमीं प्रत्युवाच । हेयमि ते तव सखा गर्भवासलक्षणेन सखिभूतोयमः एतदीदृशं त्वयोक्तं स्त्रीपुरुषलक्षणं सख्यं न वष्टि न कामयते । यद्यस्मात् कारणात् यमी सलक्ष्मा समानयोत्वलक्षणा विषुरूपा भगिनीत्वात् विषमरूपा भवाति भवति तस्मान्न वष्टीत्यर्थः । इदानीं तिरः पुरूचिदर्णवंजगन्वानित्यस्य प्रतिवचनमुच्यते । महोमहतः असुरस्य प्राणवतः प्रज्ञावतोवा प्रजापतेः पुत्रासः पुत्रभूताः वीराः । वीरो- वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणोवीरयतेर्वेतिनिरुक्तम् । शत्रूणां विविधमीरयितारः धर्तारः धारयितारः दिवः द्युलोकस्य प्रदर्शनमेतत् द्युप्रभृतीनां लोकानामित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः