मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ३

संहिता

उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य ।
नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्यु॒ः पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥

पदपाठः

उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य ।
नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥

सायणभाष्यम्

पुनरपि यमी यमं प्रत्युवाच—घेति निपातोप्यर्थे हेयम ते प्रसिद्धाः अमृतासः प्रजा- पत्यादयोदेवाएतदीदृशं शास्त्रेणागम्यत्वेनोक्तं त्यजसं त्यज्यते परस्मैप्रदीयतइति त्यजसं दुहितृभगिन्यादिस्त्रीजातं उशन्ति कामयन्ते एकस्यचित् सर्वस्यजगतोमुख्यस्यापि प्रजाप- त्यादेः स्वदुहितृभनिन्यादिना संबन्धोस्तीति शेषः । अतः कारणात्ते तव मनश्चित्तं अस्मे अस्माकं ममेत्यर्थः । मनसि चित्ते निधायि निधीयतां अहं त्वां कामये त्वं मामपि काम यस्वेत्यर्थः । अपिच जन्युरिति लुप्तोपममेतत् जन्युरिव यथा जनयिता प्रजापतिः पतिर्भर्ता भूत्वा स्वदुहितुः शरीरं संभोगेनाविष्टवान् तथा त्वमपि मम पतिर्भूत्वा तन्वं मदीयं शरीरं आविविश्याः संभोगेनाविश योनौ प्रजननप्रक्षेपोपगूहचुंबनादिना मां संभुंक्ष्वेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः