मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ४

संहिता

न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद॑न्तो॒ अनृ॑तं रपेम ।
ग॒न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभि॑ः पर॒मं जा॒मि तन्नौ॑ ॥

पदपाठः

न । यत् । पु॒रा । च॒कृ॒म । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ ।
ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥

सायणभाष्यम्

यमः यमीं पुनर्ब्रूते—पुरा पूर्वं प्रजापतेः यदगम्यागमनं अपरिमितसामर्थ्योपेतत्वात् कृतं तथा वयं नचकृम नाकुर्म । वयं ऋता ऋतानि सत्यानि वदन्तोब्रुवन्तः अनृतमसत्यं कद्ध कदा खलु नूनं निश्चितं रपेम वदेम नकदाचिदपीत्यर्थः । अगम्यागमनं नकुर्मइति यावत् । अपिच अप्सु अन्तरिक्षनामैतत् अन्तरिक्षे स्थितः गन्धर्वः गवां रश्मीनामुदकानां वा धारयिता आदित्यः अप्या अन्तरिक्षस्था सा प्रसिद्धा योषा आदित्यस्य भार्या सरण्यू- श्च नौ आवयोर्नाभिरुत्पत्तिस्थानं मातापितरावित्यर्थः तत्तस्मात्कारणात् नौ आवयोः जा- मि बांधवं परमं उत्कृष्टं एवं सति आवयोरगम्यागमनरूपत्वात् कर्तुमयुक्तं तस्मादेतन्न- करोमीत्यभिप्रायः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः