मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ८

संहिता

न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर॑न्ति ।
अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥

पदपाठः

न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति ।
अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥

सायणभाष्यम्

यम्या प्रख्यातोयमः पुनराह—इहास्मिन् लोके देवानां संबन्धिनोये स्पशः अहोरात्रा- दयश्चाराश्चरन्ति सर्वेषां शुभाशुभलक्षणकर्मप्रत्यवेक्षणार्थं परिभ्रमन्ति एतेचाराः क्षणमात्र- मपि चरणव्यापाररहिताः नतिष्ठन्ति ननिमिषन्ति मेषणंनकुर्वन्ति शुभमशुभंवा यः करोति तं निरीक्षन्ते चेत्यर्थः । हेआहनः ममापहंत्रि असह्यभाषणेन दुःखयित्रि त्वं मत् मत्तः अन्येन त्वत्सदृशेनसह तूयं क्षिप्रं याहि संगच्छ । गत्वाच तेन विवृह धर्मार्थकामानुद्यच्छ । तत्र दृष्टान्तः—रय्येव चक्रा यथा रथावयवभूते चक्रे रथमुद्यच्छतः तद्वत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः