मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ९

संहिता

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् ।
दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥

पदपाठः

रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् ।
दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥

सायणभाष्यम्

रात्रीभिः रात्रिभिः अहभिः अहोरात्रयोः अस्मै यमाय कल्पितं भागं सर्वे यजमानाः दशस्येत् प्रयच्छन्तु सूर्यस्य संबन्धि चक्षुस्तेजः मुहुर्मुहुः अस्मै यमाय उन्मिमीयात् उदेतु दिवा पृथिव्या द्यावापृथिवीभ्यां सह मिथुना मिथुनौ सबन्धू समानबन्धू अहोरात्रे अस्मै यमाय एतत् ज्ञात्वा इयं यमीः यमस्य अजामि भ्रातरं बिभृयात् धारयतु यत्नेन परिगृ- ह्णात्वित्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः