मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् १०

संहिता

आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि ।
उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥

पदपाठः

आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मयः॑ । कृ॒णव॑न् । अजा॑मि ।
उप॑ । ब॒र्बृ॒हि॒ । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥

सायणभाष्यम्

यत्र येषु कालेषु जामयोभगिन्यः अजामि अभ्रातरं पतिं कृणवन् करिष्यन्ति ता तानि उत्तराणि युगानि कालविशेषाः आगच्छान् आगमिष्यन्ति । घेतिपूरणः । यस्मादेवं तस्मात् हे सुभगे त्वं इदानीं मत् मत्तः अन्यं पतिं भर्तारं इच्छस्व कामयस्व । तदनन्तरं वृषभाय तव योनौ रेतः सेक्त्रे पुरुषाय आत्मीयं बाहुं उपबर्बृहि शयनकाले उपबर्हणं कुरु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः