मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ११

संहिता

किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा॑त् ।
काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥

पदपाठः

किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊं॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् ।
काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥

सायणभाष्यम्

यमी यमेन प्रत्याख्याता पुनराह—यत् यस्मिन् भ्रातरि सति स्वस्रादिकं अनाथं ना- थरहितं भवाति भवति सभ्राता किमसत् किं भवति नभवतीत्यर्थः । किंच यत् यस्यां भगिन्यां सत्यां भ्रातरं निरृतिर्दुःखं निगच्छात् नियमेन गच्छति प्राप्नोति सा स्वसा किमु किंवा भद्रति भ्रातृभगिन्योश्च परस्परं प्रीतिर्येन केनचित् उपायेनावश्यं कार्येत्यभिप्रायः । साहं कामभूता कामेन मूर्छिता सती बहु नानाप्रकारं एतदीदृशमुक्तं वक्ष्यमाणं च रपामि प्रलपामि एतत् ज्ञात्वा मे मम तन्वा शरीरेण तन्वंच शरीरं संपिपृग्धि संपर्चय संभोगेन संश्लेषय मां सम्यक् भुंक्ष्वेत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः