मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् १२

संहिता

न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् ।
अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥

पदपाठः

न । वै । ऊं॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् ।
अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥

सायणभाष्यम्

यमः यमीं प्रत्युक्तवान् हेयमि ते तव तन्वा शरीरेण तन्वमात्मीयं शरीरं नवै संपपृ- च्यां नैव संपर्चयामि नैवाहं त्वां संभोक्तुमिच्छामीत्यर्थः । योभ्राता स्वसारं भगिनीं निग च्छात् नियमेनोपगच्छति संभुंक्तइत्यर्थः तं पापं पापकारिणं आहुः शिष्टावदन्ति एतत् ज्ञात्वा हेसुभगे सुष्ठु भजनीये हे यमि त्वं मत् मत्तः अन्येन त्वद्योग्येन पुरुषेण सह प्रमु- दः संभोगलक्षणान् प्रहर्षान् कल्पयस्व समर्थय । ते तव भ्राता यमः एतदीदृशं त्वया सह मैथुनं कर्तुं नवष्टि नकामयते नेच्छति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः