ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम ।
अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ॥
ब॒तः । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मनः॑ । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ ।
अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या॑ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥
यमी प्रत्युवाच—हेयम त्वं बतोदुर्बलोसि । बतेति निपातः खेदानुकंपयोः । अनुकंप्य- श्चासि ते त्वदीयं मनः मनोगतं संकल्पं हृदयंच बुद्धिगतमध्यवसायंच नैवाविदाम वयं नजानीम एवं मत्तोन्या काचित् स्त्री त्वां परिष्वजातेकिल । तत्र दृष्टान्तद्वयमुच्यते—क- क्ष्येवयुक्तं यथाकक्ष्यारज्जुः युक्तं आत्मना संबद्धं अश्वं परिष्वजते तद्वत् लिबुजेव वृक्षं यथा लिबुजा व्रततिः गाढं वृक्षं परिष्वजाते तद्वच्च अन्यस्यां स्त्रियां आसक्तस्त्वं मां परि- ष्वक्तुं नेच्छसीत्यर्थः ॥ १३ ॥