मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् १४

संहिता

अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ।
तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ॥

पदपाठः

अ॒न्यम् । ऊं॒ इति॑ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊं॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ।
तस्य॑ । वा॒ । त्वम् । मनः॑ । इ॒च्छ । सः । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥

सायणभाष्यम्

यमः पुनरप्याह—हेयमि त्वं अन्यमु अन्यं पुरुषमेव सु सुष्ठु परिष्वज अन्यउ अन्योपि पुरुषः त्वां परिष्वजाते । तत्र दृष्टान्तः—लिबुजेव वृक्षं यथा वल्ली गाढं वृक्षं परिष्वजते तद्वत् । तथासति वाशब्दः समुच्चये । त्वं तस्यच पुरुषस्य मनः इच्छ कामय । तस्य त्वं वशवर्तिनी भवेत्यर्थः । सच पुरुषः तव मनइच्छतु । अध अथ परस्परवशवर्तित्वानन्तरं त्वं तेनसह सुभद्रां सुकल्याणीं संविदं परस्परसंभोगसुखसंवित्तिं कृणुष्व कुरुष्व ॥ १४ ॥

वृषेतिनवर्चमेकादशं सूक्तं आंगेर्हविर्धानस्यार्षं आग्नेयं सप्तम्याद्यास्तिस्रः त्रिष्टुभः शिष्टा- जगत्यः तथाचानुक्रान्तं—वृषानवांगिर्हविर्धानआग्नेयंतु त्रिष्टुबन्तमिति । गतः सूक्तविनियो- गः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः