मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् १

संहिता

वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः ।
विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥

पदपाठः

वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः ।
विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥

सायणभाष्यम्

वृषा आहुतिद्वारेण वृष्टेः वर्षिता यह्वो महान् अदाभ्यः केनाप्यहिंस्योग्निः अदितेरक्षी- णयागक्रियस्य वृष्णेः यज्ञद्वारेण स्तुतीनां हविषां वा वर्षितुर्यजमानस्यार्थाय दोहसा दोह- नेन महता प्रक्षारणेन दिवः सकाशात् पयांसि वृष्टिलक्षणान्युदकानि दुदुहे दोग्धि प्रक्षा- रवति । किंच यथा वरुणआदित्यः धिया आत्मानुरूपया प्रज्ञया विश्वं सर्वं वेद जानाति तथासोयभग्निर्जानातीत्यर्थः । यज्ञियोयज्ञार्हः सोग्निः यज्ञियान् यज्ञार्हान् ऋतून् यजतु पूजयतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः