मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ४

संहिता

अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे ।
यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥

पदपाठः

अध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे ।
यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥

सायणभाष्यम्

अध अथानंतरं श्येनः श्येनाख्यः विः पक्षी अध्वरेयागे इषितः अग्निप्रेषितः विभ्वे यहान्तं विचक्षणं सर्वस्य विशेषेण द्रष्टारं त्यं तं प्रसिद्धं द्रप्सं नात्यल्पं नातिबहुलं सोमं आभरत् आहृतवान् । अपिच्च यदि यदा आर्या अभिगमनीयं तं व्रजन्तोविशोयजमाना- मनुष्यादस्मं दर्शनीयं शत्रूणामुपक्षपयितारं वा होतारं अग्निं वृणते प्रार्थयन्ते । अध अथ तदाधीः यागादिक्रिया अजायत यज्वभिः प्रतायतइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः